ग्रंथ पाठ
ऋग्विधान · अध्याय 3.19
3.19.98
सहस्र.सम्पात.हुतम्.पाययेद्.वत्सम्.अग्रजम्.।
सहस्र.अनुचरो.वत्सः.स.स्याद्.रागैर्.विवर्जितः.॥
3.19.99
गाश्.चैव.पाययेत्.ताश्.च.भवन्ति.विगत.ज्वराः.।
पुत्रांश्.च.प्राशयेन्.नित्यम्.प्रियान्.अन्यांश्.च.सज्जनान्.॥
3.19.100
निरामयाश्.च.स्निग्धाश्.च.भवन्ति.विगत.ज्वराः.।
स्त्रियम्.चेद्.अभिमन्येत.तस्याः.संवननम्.महत्.॥
3.19.101
व्रीहीणाम्.नख.भिन्नानाम्.तण्डुलान्त्.सूक्ष्म.चूर्णितान्.।
सहस्र.सम्पात.हुतान्त्.स्वेदयेत्.कुशलो.अग्निना.॥
3.19.102
तेन.प्रतिकृतिम्.कुर्यात्.ताम्.ध्यात्वा.मनसा.स्त्रियम्.।
अक्ताम्.सर्षप.तैलेन.जुहुयाद्.अङ्गशश्.च.ताम्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0