ग्रंथ पाठ
ऋग्विधान · अध्याय 3.1
3.1.1
स्वादिष्ठया.इति.गायत्रीः.पावमानीर्.जपेद्.द्विजः.।
पवित्राणाम्.पवित्रम्.तु.पावमानीर्.ऋचो.जपेत्.॥
3.1.2
प्रयतो.अप्सु.निमज्य.आशु.सर्व.पापैः.प्रमुच्यते.।
एतासाम्.कीर्तनम्.पुण्यम्.स्मरणम्.धारणम्.तथा.॥
3.1.3
याथायथ्येन.च.ज्ञात्वा.ब्रह्म.लोकम्.समश्नुते.।
एतेषाम्.तु.यथा.उक्तानाम्.गुणवद्.यद्.यद्.उत्तरम्.॥
3.1.4
कीर्तनात्.तु.भवेत्.पूतः.स्मरणात्.स्मरते.परम्.।
धारणाद्.ब्रह्मताम्.एति.पूत.आत्मा.विजित.इन्द्रियः.॥
3.1.5
याथातथ्येन.च.ज्ञात्वा.ब्रह्मणो.विन्दते.पदम्.।
श्रावयेद्.देवता.कृत्ये.ब्राह्मणान्.भुञ्जतो.अग्रतः.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0