भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 3.18

3.18.93

वैभीतक.इध्मे.ज्वलिते.लोह.प्रतिकृतिम्.न्यसेत्.।
अर्ध.रात्रे.स्थिते.तैले.सार्षपम्.लवण.अन्वितम्.॥

3.18.94

तत्र.शरमयम्.कुर्यात्.प्रस्तरम्.प्रतिलोमतः.।
त्रिषु.शङ्कुषु.च.आसीनो.जुहुयाद्.उग्र.दर्शनः.॥

3.18.95

मुक्त.केशो.वधम्.प्रेप्सुर्.अचिरेण.प्रसाधयेत्.।
अथवा.अभिचरेद्.एवम्.जुहुयाद्.आत्म.शोणितम्.॥

3.18.96

वशम्.नयति.राजानम्.क्षिप्रम्.जन.पदम्.पुरम्.।
पुष्टि.कर्म.अपि.कर्तव्यम्.हृद्येन.उक्तम्.यत.आत्मना.॥

3.18.97

अनागसि.न.कुर्वीत.ब्राह्मणो.वध.सम्युतम्.।
सरूप.वत्सायाश्.च.गोः.पयसा.साधयेत्.चरुम्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc