ऋग्विधान · अध्याय 3.14
बृहस्पते.प्रथमम्.इति.नित्यम्.ज्ञान.स्तुतिम्.जपेत्.।
ज्ञानवान्.भवति.श्रीमान्.अनन्ताम्.विन्दते.श्रियम्.॥
अलक्ष्मी.नाशन.अर्थम्.तु.पयो.भक्षो.भवेद्.द्विजः.।
वयः.सुपर्णा.इत्य्.एताम्.जपन्.वै.विन्दते.श्रियम्.॥
तमसा.प्रावृतो.यस्.तु.मन्येत.आत्मानम्.आत्मनि.।
अश्रिया.वा.अप्य्.अथ.आविष्टो.जपन्न्.एताम्.प्रमुच्यते.॥
अक्षिणी.प्रातर्.उत्थाय.विमृजीत.एतया.सदा.।
चक्षुष्मान्.भवति.श्रीमान्.अलक्ष्मीम्.च.प्रबाधते.॥
न.तम्.विदाथ.इत्य्.एताम्.तु.जपन्.विप्रः.समाहितः.।
विहाय.कल्मषम्.सर्वम्.ब्रह्म.अभ्येति.सनातनम्.॥
अनया.पर्वसु.स्नात्वा.यः.प्रदद्यात्.तिल.उदकम्.।
यमाय.सगणाय.एव.तद्.भयम्.न.स.विन्दति.॥
यस्.ते.मन्यो.इति.सदा.सपत्नघ्ने.त्व्.इमे.जपेत्.।
घृतेन.अभिहुतम्.द्वाभ्याम्.धारयेद्.आयसम्.मणिम्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0