ग्रंथ पाठ
ऋग्विधान · अध्याय 3.13
3.13.66
चतुष्.पथे.च.अन्न.काम.आदित्य.अभिमुखो.घृतम्.।
जुहुयाद्.धन.कामस्.तु.सहस्रम्.भोजयेद्.द्विजान्.॥
3.13.67
पशु.कामो.जपेद्.गोष्ठे.जुहुयाद्.वा.अप्य्.उपोषितः.।
विधिना.अनेन.नियतः.सहस्रम्.विन्दते.पशून्.॥
3.13.68
लोह.लोहित.हेमानाम्.कारयेत्.त्रिवृतम्.मणिम्.।
सहस्रम्.समिधाम्.चैव.सम्पात.अभिहुत्.तु.भवेत्.॥
3.13.69
कृत्वा.सहस्र.सम्पातम्.शिरसा.धारयेत्.तु.तम्.।
पाणिना.वा.शुचिर्.भूत्वा.सहस्र.अनुचरो.भवेत्.॥
3.13.70
परावतः.स्वस्त्ययनम्.स्नातकस्य.विधीयते.।
स्वर्ग.कामश्.च.तम्.नित्यम्.जपेत.नियत.व्रतः.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0