भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 3.15

3.15.78

जुहुयाद्.आयसम्.शङ्कुम्.आभ्याम्.एव.चतुर्दशीम्.।
खादिर.इध्म.समिद्धे.अग्नौ.सपत्नान्.प्रतिबाधते.॥

3.15.79

यथा.हि.परमम्.ब्रह्म.गुह्यम्.पावनम्.अद्भुतम्.।
तथा.संवननम्.हृद्यम्.न.ह्य्.अस्माद्.विद्यते.परम्.॥

3.15.80

उपोष्य.द्वादश.अहानि.जपन्न्.एतम्.ऋषिम्.सदा.।
तन्.मनाः.प्रयतः.स.स्यात्.त्रिर्.अह्नो.अभ्युपयन्न्.अपः.॥

3.15.81

अन्ते.तु.द्वादश.अहस्य.शुचौ.देशे.समाहितः.।
पुंसः.प्रतिकृतिम्.कुर्याद्.भूमौ.पांसुमयीम्.तथा.॥

3.15.82

तस्या.हृदय.देशम्.तु.समाक्रम्य.जपेद्.ऋषिम्.।
अमोघम्.कर्म.जानीयाद्.अहो.रात्रे.गते.सति.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc