ग्रंथ पाठ
ऋग्विधान · अध्याय 3.12
3.12.61
जीव.आवृत्तिम्.प्रयुञ्जीत.नित्यम्.एताम्.घृतेन.तु.।
श्रोतांस्य्.अभ्यज्य.सर्वाणि.सुखी.भवति.विज्वरः.॥
3.12.62
इदम्.इत्था.इति.मन्त्रो.अयम्.सहस्र.सनिर्.उच्यते.।
अर्ध.मासम्.हविष्य.अन्नम्.अर्ध.मासम्.पयः.पिबेत्.॥
3.12.63
उपोष्य.च.अपरम्.पक्षम्.अरण्ये.स्थण्डिले.शुचौ.।
औदुम्बर.इध्मम्.प्रज्वाल्य.जुहुयात्.पावके.घृतम्.॥
3.12.64
स्रुक्.स्रुवौ.चमसश्.चैव.सर्वम्.औदुम्बरम्.भवेत्.।
हुत्वा.आहुति.सहस्रम्.तु.तेन.कामेन.युज्यते.॥
3.12.65
अमोघम्.एव.कर्म.एतज्.जानीयात्.सिद्धिम्.एव.तु.।
व्यर्थम्.अप्य्.अर्धम्.एव.एतत्.फलस्य.अस्य.प्रयच्छति.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0