भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 3.11

3.11.56

दिवस्.परि.इति.सूक्तम्.तु.जपेन्.श्रद्धा.समन्वितः.।
सर्वत्र.लभते.श्रद्धाम्.श्रद्धा.कामः.समाहितः.॥

3.11.57

मा.प्र.गाम.इति.च.जपेत्.स.मूढो.गहने.पथि.।
स्वस्तिमान्.एति.पन्थानम्.विन्दते.च.परम्.सुखम्.॥

3.11.58

क्षीण.आयुर्.इति.मन्येत.यम्.कंचित्.सुहृदम्.प्रियम्.।
यत्.ते.यमम्.इति.स्नातस्.तस्य.मूर्धानम्.आलभेत्.॥

3.11.59

सहस्रकृत्वः.पञ्च.अहम्.जपेद्.आयुर्.लभेत.सः.।
घृतेन.सिन्धु.द्वीपस्य.सूक्तेन.एनम्.प्रलेपयेत्.॥

3.11.60

संविशन्.शयने.नित्यम्.एतम्.मन्त्रम्.जपेत.वै.।
पुत्रान्.भार्याम्.प्रियम्.च.अन्यम्.आत्मानम्.संस्पृशेत्.ततः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc