भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.35

2.35.181

कन्या.वार्.इति.सूक्तम्.तु.सततम्.नियतो.जपेत्.॥

2.35.182

त्वग्.दोषिणीम्.तथा.अलोम्नीम्.क्षिप्रम्.तस्मात्.प्रमोचयेत्.।
यद्.अद्य.कच्.च.इत्य्.उदिते.रवौ.स्तुत्वा.पुरंदरम्.॥

2.35.183

गृणन्न्.अपोहते.रिप्रम्.वश्यम्.वा.कुरुते.जगत्.।
यद्.वाग्.इति.द्वृचेन.एत्य.गौरीम्.यो.अर्चति.सुव्रतः.॥

2.35.184

तस्य.न.असंस्कृता.वाणी.मुखाद्.उच्चरते.क्वचित्.।
बण्.महाम्.इति.दृष्ट्वा.अर्कम्.उपतिष्ठेद्.द्वृचम्.पठन्.॥(वण्.महाम्)

2.35.185

ब्रुवन्न्.अप्य्.अनृताम्.वाणीम्.लिप्यते.न.अनृतेन.सः.।
पूर्णे.चन्द्रमसि.ज्योत्स्नाम्.इयम्.या.इत्य्.अनुसेवयेत्.॥

2.35.186

चन्द्र.दृष्टिस्.त्व्.अनिमिषो.वर्चस्वी.दृष्टिमान्.भवेत्.।
प्रजा.ह.इति.जपन्त्.स्नात्वा.न.योनिम्.प्रतिजायते.॥

2.35.187

माता.इति.गाम्.उपस्पृश्य.जपन्.गास्.तु.समश्नुते.।
वचोविदम्.इति.त्व्.एताम्.जपन्.वाचम्.समश्नुते.॥

2.35.188

पावमानम्.परम्.ह्य्.एतन्.नवमम्.मण्डलम्.जपेत्.।
स्नात्वा.शुचिः.शुचौ.देशे.सपवित्रः.सकाञ्चनः.॥ए

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc