ग्रंथ पाठ
ऋग्विधान · अध्याय 2.34
2.34.177
उत्.त्वा.मन्दन्त्व्.इति.स्नातो.हुत्वा.शत्रून्.प्रमापयेत्.।
बद्धो.वा.अप्य्.अबद्धो.वा.वाग्.यतः.प्रयतो.जपेत्.॥
2.34.178
त्या.न्व्.इत्य्.आदित्य.दैवत्यम्.सद्यो.मुच्येत.बन्धनात्.।
यद्.द्यावा.इति.जपेन्.नित्यम्.प्रगाथम्.नियतः.शुचिः.॥
2.34.179
स.कीर्तिम्.अतुलाम्.प्राप्य.सर्वान्.कामान्त्.समश्नुते.।
त्वम्.नो.अग्न.इति.सूक्तेन.हुत्वा.अर्च्य.अग्निम्.घृतेन.तु.॥
2.34.180
पालितो.विश्वतो.दीप्त्या.प्राप्नुयाद्.वह्निना.रयिम्.।
आ.तु.सूक्तेन.सततम्.धनम्.यावत्.पुरंदरम्.॥
2.34.181
प्रसमित्.पाणये.तस्मै.धनम्.यच्छति.वृत्रहा.।
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0