भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.33

2.33.172

तस्मात्.पूर्व.आह्णिको.अध्यायः.स्मृतो.अयम्.रिपु.नाशनः.।
वाशम्.मही.इति.च.जप्त्वा.प्राप्नोत्य्.आरोग्यम्.एव.च.॥

2.33.173

दुह्स्वप्नघ्नीः.परा.जप्त्वा.प्रातः.पापैः.प्रमुच्यते.।
शम्.नो.भव.इति.द्वाभ्याम्.तु.भुक्त्वा.अन्नम्.प्रयतः.शुचिः.॥

2.33.174

हृदयम्.पाणिना.स्पृष्ट्वा.ज्योग्.जीवेद्.अगदः.सुखी.।
यतो.भयम्.विजानीयात्.तस्याम्.दिशि.यत.व्रतः.॥

2.33.175

शुचौ.देशे.अग्निम्.आधाय.जुहुयाद्.इन्द्रम्.अर्च्य.च.।
यत.इत्य्.आज्यम्.उत्पूतम्.षड्भिर्.गन्धान्.निवेद्य.च.॥

2.33.176

पायसम्.दधि.मन्थम्.वा.अपूपान्.वा.अप्य्.उपहारयेत्.।
अहो.रात्रम्.उपोष्य.एकम्.तिलान्.वा.घृतम्.एव.वा.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc