ऋग्विधान · अध्याय 2.32
प्राग्.भोजनम्.इदम्.ब्रह्म.मानवानाम्.महर्षिणाम्.।
पूर्व.अह्णे.जपतो.नित्यम्.अर्थ.सिद्धिः.परा.भवेत्.॥
अग्निना.इत्य्.आश्विनम्.सूक्तम्.चतुर्.विंशकम्.अन्वहम्.।
जपेत्.प्रातः.शुचिर्.भूत्वा.नासत्याव्.अर्च्य.सुव्रतः.॥
स.प्राप्नुयात्.पराम्.ऋद्धिम्.द्रविणम्.च.ऊर्जम्.एव.च.।
समिधा.इति.जुहोत्य्.अग्नौ.सूक्तेन.प्रत्यृचम्.घृतम्.॥
स.सिद्धिम्.अतुलाम्.प्राप्य.समानाम्.जीवते.शतम्.।
द्वि.चत्वारिंशकेन.इह.सूक्तेन.अघ.इति.वज्रिणम्.॥
सख्यम्.लब्ध्वा.महा.इन्द्रेण.सपत्नान्त्.स्तृणुते.बहून्.।
प्राश्नीयाज्.जपतो.अत्र.अस्ति.प्रश्नम्.कृत्वा.प्रमाणतः.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0