ऋग्विधान · अध्याय 2.31
प्र.संराजम्.इति.त्व्.एतज्.जपन्न्.ईक्षेद्.दिवाकरम्.।
उद्यन्तम्.उपतिष्ठेत.स्नात्वा.स्नात्वा.दिने.दिने.॥
अभियुक्तो.भवेद्.यस्.तु.विवदेद्.वा.अपि.केनचित्.।
निर्जित्य.सगणान्.शत्रून्.क्षिप्रम्.वादम्.पराजयेत्.॥
शम्.अगिर्.अग्निभिश्.च.इति.प्रपद्येद्.वायु.भास्करौ.।
अग्निम्.प्रथमतः.स्तुत्वा.महत्.कृच्छ्रात्.प्रमुच्यते.॥
न.हि.इति.यश्.चतुष्केण.स्नात्वा.वै.प्रातर्.उत्थितः.।
द्वौ.मासाव्.उपतिष्ठेत.स.त्रायति.भयात्.स्वयम्.॥
तृचम्.जप्त्वा.आयद्.इत्य्.एतत्.स्नात्वा.अभ्यर्च्य.पुरंदरम्.।
प्राप्नुयान्.मानसान्.कामान्.सम्पूज्य.वसु.रोचिषः.॥
आद्यानि.त्रीणि.सूक्तानि.पञ्च.च.अग्रे.बृहन्न्.इति.।
षट्.तथा.अन्त्यानि.सूक्तानि.अग्निम्.नर.इतो.इति.च.॥
प्रकृतानि.इति.च.अध्यायम्.भोजनात्.प्राक्.पठेद्.इदम्.।
सर्वान्.कामान्.अवाप्नोति.मुच्येत.सर्व.किल्बिषैः.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0