भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.30

2.30.155

आस्य.दघ्नम्.विगाह्य.अम्भः.प्रान्.मुखः.प्रयतः.शुचिः.।
सूक्ताभ्याम्.तिस्र.एताभ्याम्.उपतिष्ठेद्.दिवाकरम्.॥

2.30.156

अनश्नता.तु.जप्तव्यम्.वृष्टि.कामेन.यत्नतः.।
पञ्च.रात्रे.व्यतीते.तु.महद्.वर्षम्.अवाप्नुयात्.॥

2.30.157

यो.अरिभिः.प्रतिपद्येत.अभिशस्येत.वा.मृषा.।
उपोष्य.एकम्.त्रि.रात्रम्.स.जुहुयाद्.आज्यम्.अन्वहम्.॥

2.30.158

इन्द्रा.सोम.इति.सूक्तम्.तु.जपेच्.च.एतत्.शत.अवरम्.।
किंचिद्.दद्याद्.द्विजेभ्यो.अन्ते.स्तृणुते.सर्व.शात्रवान्.॥

2.30.159

यस्य.लुप्येद्.व्रतम्.मोहाद्.व्रात्यैर्.वा.संस्पृशेद्.द्विजः.।
उपोष्य.आज्यम्.च.जुहुयात्.त्वम्.अग्ने.व्रतपा.इति.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc