भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.29

2.29.150

यत्.किंचित्.पातकम्.कुर्यात्.कर्मणा.मनसा.गिरा.।
यत्.किंच.इदम्.वरुण.इति.ऋचम्.जप्त्वा.प्रमुच्यते.॥

2.29.151

अगम्या.गमने.च.एतत्.प्रायश्चित्तम्.विधीयते.।
अन्यत्र.गुरु.तल्पाच्.च.तस्मात्.पापात्.प्रमुच्यते.॥

2.29.152

द्वादश.अहम्.अभुञ्जानः.स्व.गोत्र.आगमने.जपेत्.।
अर्ध.मासम्.अभुञ्जानः.सखि.दारेषु.संवसन्.॥

2.29.153

इदम्.आपः.प्रवहत.यत्.किम्.च.इदम्.ऋचम्.पुनः.।
इति.च.एता.जपेद्.अपः.प्रविश्य.एतेषु.कर्मसु.॥

2.29.154

इन्द्रा.विष्णू.नमस्.कृत्य.जुहुयाद्.आज्यम्.अन्वहम्.।
सूक्ताभ्याम्.पर.एताभ्याम्.य.इच्छेद्.भूतिम्.आत्मनः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc