ग्रंथ पाठ
ऋग्विधान · अध्याय 2.28
2.28.145
व्युषा.इत्य्.उपतिष्ठेत.षड्भिः.सूक्तैः.कृत.अञ्जलिः.॥
2.28.146
प्राप्नुयात्.स.हिरण्य.आदि.नाना.रूपम्.धनम्.बहु.।
गा.अश्वान्.पुरुषान्.धान्यम्.स्त्रियो.वासांस्य्.अज.अविकम्.॥
2.28.147
ध्रुवासु.त्व्.आसु.क्षितिषु.जपन्.बद्धः.प्रमुच्यते.।
तिष्ठन्.रात्रौ.जपेद्.एनाम्.विपाशः.सम्प्रपद्यते.॥
2.28.148
अहो.रात्रम्.स्थितश्.चैवम्.अनश्नन्त्.स्याद्.विचेष्टितः.।
अयः.पाशः.स्फुटन्त्य्.अस्य.दारु.पाशास्.तथैव.च.॥
2.28.149
स्योना.इति.पृथिवीम्.देवीम्.प्रपद्येन्.नियतः.सदा.।
जपेद्.एनाम्.च.तत्र.अपि.भूमि.पाशात्.प्रमुच्यते.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0