भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.27

2.27.140

सम्बाधे.विषमे.दुर्गे.बद्धो.वा.निर्गतः.क्वचित्.।
पलायन्.वा.गृहीतो.वा.तस्करैः.स.जपेद्.इदम्.॥

2.27.141

अमीवहा.विश्ववतीम्.उद्धृत्य.अन्याः.प्रयोजयेत्.।
सूक्तम्.एतज्.जपेत्.सर्वम्.इति.मन्येत.शौनकः.॥

2.27.142

त्रि.रात्रिम्.नियतो.अनश्नन्.श्रपयेत्.पायसम्.चरुम्.।
तेन.आहुति.शतम्.पूर्णम्.जुहुयात्.सर्पिषा.द्विजः.॥

2.27.143

समुद्दिश्य.महा.देवम्.त्र्यम्बकम्.त्र्यम्बक.इत्य्.ऋचा.।
एतत्.पर्व.शतम्.कृत्वा.जीवेद्.अब्द.शतम्.सुखी.॥

2.27.144

तत्.चक्शुर्.इत्य्.ऋचा.स्नात.उपतिष्ठेद्.दिवाकरम्.।
उद्यन्तम्.मध्यगम्.चैव.दीर्घम्.आयुर्.जिजीविषुः.॥

2.27.145

रात्र्या.अपर.काले.य.उत्थाय.प्रयतः.शुचिः.।

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc