ग्रंथ पाठ
ऋग्विधान · अध्याय 2.26
2.26.135
इमा.इति.जपेन्.नित्यम्.रौद्रम्.सूक्तम्.द्विजः.शुचिः.।
तज्.जपन्.प्रजया.वित्तैः.स्वयम्.चैव.न.रिष्यति.॥
2.26.136
उत्तितीर्षुर्.अपो.यस्.तु.शङ्केत्.स्रोत्या.समागमे.।(?)
समुद्र.ज्येष्ठा.इति.जपेत्.सूक्तम्.एतद्.भय.अपहम्.॥
2.26.137
आदित्य.दैवते.सूक्ते.रिपुघ्ने.रोग.नाशने.।
जपेत्.प्रातः.शुचिर्.भूत्वा.रिपु.रोगैः.प्रमुच्यते.॥
2.26.138
वास्तोष्पते.प्रति.इत्य्.एतत्.सूक्तम्.वास्तोष्पतम्.जपेत्.।
स्नातः.कृत्वा.वैश्वदेवम्.परम्.ब्रह्म.इदम्.उच्यते.॥
2.26.139
अमीवहा.इति.सूक्तेन.भूतानि.स्वापयेन्.निशि.।
न.हि.प्रस्वापनम्.किंचिद्.ईदृशम्.विद्यते.क्वचित्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0