भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.23

2.23.120

वयम्.उ.त्वा.इति.सूक्तम्.तु.पौष्णम्.द्रविण.वर्धनम्.।
नित्यम्.जपेत्.शुचिर्.भूत्वा.धनम्.विन्दत्य्.अभीप्सितम्.॥

2.23.121

यस्य.नष्टम्.भवेत्.किंचिद्.द्रव्यम्.गौर्.द्विपदम्.धनम्.।
नश्येद्.वा.अध्वनि.यो.मोहात्.सम्पूषन्.स.जपेन्.निशि.॥

2.23.122

इयम्.इत्य्.एतद्.आद्य्.अन्तम्.सूक्तम्.सारस्वतम्.द्विजः.।
नित्यम्.जपेत्.शुचिर्.भूत्वा.वाग्मी.भवति.बुद्धिमान्.॥

2.23.123

सम्.वाम्.इति.तु.यत्.सूक्तम्.अष्ट.ऋचम्.त्रैष्टुभम्.स्मृतम्.।
तज्.जपन्.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥

2.23.124

यो.अद्रि.भित्.तु.यत्.सूक्तम्.तत्.सपत्न.निबर्हणम्.।
बृहस्पतिम्.नमस्.कृत्वा.सपत्नान्त्.स्तृणुते.बहून्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc