ग्रंथ पाठ
ऋग्विधान · अध्याय 2.24
2.24.125
एनस्वी.वा.अभिशस्तो.वा.कृत्वा.वा.कर्म.गर्हितम्.।
सोमा.रौद्रम्.जपेत्.सूक्तम्.कृत्स्नम्.एनो.व्यपोहति.॥
2.24.126
जुहुयाद्.वा.य.एताभिर्.ऋग्भिर्.नित्यम्.घृत.व्रतः.।
वारुणेभ्यो.स.पाशेभ्यो.मुच्यते.शम्.तथा.आप्नुयात्.॥
2.24.127
जीमूत.सूक्तस्य.विधिम्.यथा.लिङ्गम्.अवेक्ष्य.वै.।
ऋग्भिः.कर्माणि.कुर्वीत.रथ.अङ्गानाम्.यथा.विधि.॥
2.24.128
संग्रामम्.तु.प्रयातस्य.राज्ञश्.च.एतत्.प्रयोजयेत्.।
सर्वाण्य्.अङ्गानि.रथ्यांश्.च.सदश्वांश्.च.अनुमन्त्रयेत्.॥
2.24.129
यम्.एव.देशम्.गच्छेत.शत्रुम्.वा.अप्य्.अनुमन्त्रितः.।
न.अजित्वा.विनिवर्तेत.परम्.हि.ब्रह्मणो.बलम्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0