भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.22

2.22.114

उप.इति.तिसृभी.राज्ञो.दुन्दुभीन्.संस्पृशेद्.रणे.।
ओजो.बलम्.अवाप्नोति.शत्रूंश्.चैव.नियच्छति.॥

2.22.115

पाणिना.तृणम्.आदाय.यज्ञ.अयज्ञ.इति.यो.अभ्यसेत्.।
सो.अधीतस्य.अस्य.सूक्तस्य.फलम्.प्राप्नोति.न.अतृणः.॥

2.22.116

सूक्त.अन्ते.च.तृणम्.त्व्.अग्नाव्.इरिणे.वा.उदके.अपि.वा.।
निक्षिपेत्.तत्.प्रयत्नेन.त्यक्त्वा.अन्यत्र.भय.आवहम्.॥

2.22.117

तृण.पाणिर्.जपन्.सूक्तम्.रक्षोघ्नम्.दस्युभिर्.वृतः.।
न.भयम्.विन्दते.किंचिद्.रक्षोभ्यो.अरिभ्य.एव.च.॥

2.22.118

गृहात्.प्रपद्यमानस्.तु.पन्थानम्.धन.काम्यया.।
जपेत्.सो.अध्वनि.यत्नेन.अपि.पन्थाम्.इति.व्रजन्.॥

2.22.119

ये.के.च.ज्मा.इत्य्.ऋचम्.त्व्.एताम्.ध्यायन्.निशि.दिव.ओकसः.।
अग्नौ.हुत्वा.एतया.च.आज्यम्.दीर्घम्.आयुर्.अवाप्नुयात्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc