भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.21

2.21.108

न.जातु.कृपण.अर्थाय.श्रियम्.आवाहयेत्.क्वचित्.।
न.यत्.किंचन.कामेन.होमः.कार्यः.कथंचन.॥

2.21.109

महद्.वा.प्रार्थ्यमानेन.राज्य.कामेन.वा.पुनः.।
वाचः.परम्.प्रार्थयिता.यत्नाद्.युक्तः.श्रियम्.यजेत्.॥

2.21.110

अग्निर्.एत्व्.इति.सूक्तेन.जुहुयाद्.आज्यम्.अन्वहम्.।
ओजस्विनीम्.अवाप्नोति.प्रजाम्.धर्मवतीम्.शुभाम्.॥

2.21.111

अच्छा.न.इत्य्.ऋचा.दीप्तम्.उपतिष्ठेद्.विभावसुम्.।
प्रजाम्.प्राप्य.जयेत्.शत्रूंस्.तरते.दुरितानि.च.॥

2.21.112

आ.गाव.इति.सूक्तेन.गोष्ठगा.लोक.मातरः.।
उपतिष्ठेद्.व्रजन्तीश्.च.य.इच्छेत्.ताः.सदा.अक्षयाः.॥

2.21.113

त्वाम्.इद्धि.इति.प्रगाथेन.उपतिष्ठेत्.शतक्रतुम्.।
मध्य.अह्ने.संध्ययोश्.चैव.जपन्.धनम्.अवाप्नुयात्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc