ग्रंथ पाठ
ऋग्विधान · अध्याय 2.20
2.20.103
अनन्ताम्.अव्यवच्छिनाम्.शाश्वतीम्.विन्दते.श्रियम्.।
अशक्तौ.जप.एव.उक्तो.दश.साहस्रिको.वरः.॥
2.20.104
अप्त्वा.नु.प्रयुतम्.सम्यग्.अनन्ताम्.विन्दते.श्रियम्.।
अयुतम्.शतकृत्वस्.तु.जप्त्वा.श्रियम्.उपाश्नुते.॥
2.20.105
अप्स्व्.एव.जुहुयान्.नित्यम्.पद्मान्य्.अयुतशो.निशि.।
दृष्ट्वा.श्रियम्.तु.उपरमेत्.किलासत्वाद्.बिभेत.वै.॥
2.20.106
बिल्व.आशी.बिल्व.निलयो.जुहुयाद्.बिल्वानि.सर्पिषा.।
एक.विंशति.रात्रेण.पराम्.सिद्धिम्.नियच्छति.॥
2.20.107
येन.येन.च.कामेन.जुहोति.प्रयतः.श्रियै.।
पद्मान्य्.अथ.अपि.बिल्वानि.स.स.कामः.समृध्यति.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0