ग्रंथ पाठ
ऋग्विधान · अध्याय 2.19
2.19.98
अश्व.पूर्णाम्.इति.स्नायाद्.राज्य.कामः.शुचि.व्रतः.।
रोहिते.चर्मणि.स्नायाद्.ब्राह्मणस्.तु.यथा.विधि.॥
2.19.99
राजा.चर्मणि.वैयाघ्रे.क्षत्रियस्.त्व्.अथ.रौरवे.।
बस्त.चर्मणि.वैश्यस्.तु.होमः.कार्यस्.त्व्.अनन्तरम्.॥
2.19.100
चन्द्राम्.इति.तु.पद्मानि.जुहुयात्.सर्पिषा.द्विजः.।
आदित्य.वर्ण.इत्य्.अनया.बिल्व.होमो.विधीयते.॥
2.19.101
बिल्व.इध्म.एव.वा.अग्निः.स्यात्.स्थालीश्.च.जुहुयाद्.द्विजः.।
दश.साहस्रिको.होमः.श्री.कामः.प्रथमो.विधिः.॥
2.19.102
हुत्वा.तु.प्रयुतम्.सम्यग्.अनन्ताम्.विन्दते.श्रियम्.।
अयुतम्.शतकृत्वस्.तु.हुत्वा.शुक्लानि.सर्पिषा.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0