भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.18

2.18.93

स.शुचिः.प्रयतो.भूत्वा.जुहुयाद्.आज्यम्.अन्वहम्.।
श्रियः.पञ्च.दश.ऋचम्.च.श्री.कामः.सततम्.जपेत्.॥

2.18.94

आवाहयेत्.श्रियम्.पद्मे.पञ्चभिः.कनको.अपि.वा.।
उपहारान्.उपहरेत्.शुक्लान्.भक्षान्.पयो.दधि.॥

2.18.95

स्थाली.पाकम्.च.शालीनाम्.पयसा.सम्प्रकल्पयेत्.।
चान्द्रायण.कृत.आत्मा.तु.प्रपद्येत्.प्रयतः.श्रियै.॥

2.18.96

सर्व.औषधीभिः.फाण्टाभिः.स्नात्वा.अद्भिः.पावनैर्.अपि.।
उपैतु.माम्.देव.सख.इति.राज्ञो.अभिषेचनी.॥

2.18.97

मनसः.कामम्.इत्य्.एषा.पशु.काम.अभिषेचनी.।
कदर्मेन.इति.यः.स्नायात्.प्रजा.कामः.शुचि.व्रतः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc