ऋग्विधान · अध्याय 2.17
स्वस्ति.पन्थाम्.इति.प्रोच्य.स्वस्तिमान्.व्रजते.अध्वनि.।
विजिहीष्व.वनस्पते.तद्.इदम्.च्यावनम्.स्मृतम्.॥
यम्.च्यावयितु.कामः.स्याच्.च्यावयेत्.तम्.इदम्.जपन्.।
द्विषन्तम्.वा.पदा.आक्रम्य.भूमौ.पांसुमयीम्.कृतिम्.॥
निष्पेक्ष्यन्न्.इव.संग्रामाच्.च्यवते.न.अत्र.संशयः.।
स्त्रियम्.गर्भ.प्रमूढाम्.वा.पाययेद्.अनुमन्त्रितम्.॥
उदकम्.च्यावनेन.एव.गर्भो.अधः.च्यवते.सुखम्.।
अच्छा.वद.इति.सूक्तम्.तु.वृष्टि.कामः.प्रयोजयेत्.॥
निराहारः.खिन्न.वासा.अचिरेण.प्रवर्षति.।
हुत्वा.अयुतम्.वैतसीनाम्.क्षीर.अक्तानाम्.हुत.अशने.॥
महद्.वर्षम्.अवाप्नोति.सूक्तेन.आच्छा.वदेन.हि.।
य.इच्छेद्.वरदाम्.देवीम्.श्रियम्.नित्यम्.कुले.स्थिताम्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0