ऋग्विधान · अध्याय 2.12
पद्मानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.।
प्राप्नोति.राज्यम्.निखिलम्.असपत्नम्.अकण्टकम्.॥
पञ्च.विंशति.लक्षेण.दधि.क्षीर.घृत.अशनः.।
स्व.देहे.सिध्यते.जन्तुः.कौशिकस्य.मतम्.यथा.॥
एक.अहम्.पञ्च.गव्य.आशी.एक.अहम्.मारुत.अशनः.।
एक.अहम्.ब्राह्मण.अन्न.आशी.गायत्री.जप.उच्यते.॥
शतेन.गायत्र्या.स्नात्वा.शतम्.अन्तर्.जले.जपेत्.।
शतेन.अपस्.ततः.पीत्वा.सर्व.पापैः.प्रमुच्यते.॥
गोध्नः.पितृघ्नो.मातृघ्नो.ब्रह्महा.गुरु.तल्पणः.।
सुवर्ण.रत्न.हारी.च.यश्.च.विप्रः.सुराम्.पिबेत्.॥
अयाज्य.याजनम्.कृत्वा.कृत्वा.वा.कर्म.गर्हितम्.।
न.सीदेत्.प्रतिगृह्णानो.महीम्.अपि.ससागराम्.॥
ये.च.अस्य.दुह्स्थिता.लोके.ग्रहाः.सूर्य.आदयो.भुवि.।
ते.यान्ति.सौम्यताम्.सर्वे.शिवा.इति.न.संशयः.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0