ग्रंथ पाठ
ऋग्विधान · अध्याय 2.11
2.11.51
प्रत्यानयन.सिद्ध्य्.अर्थम्.मधु.सर्पिः.समन्वितम्.।
गव्यम्.क्षीरम्.प्रदीप्ते.ग्नौ.जुह्वतस्.तत्.प्रशाम्यति.॥
2.11.52
ब्रह्म.चारी.मित.आहारो.यः.सहस्र.त्रयम्.जपेत्.।
संवत्सरेण.लभते.धन.ऐश्वर्यम्.न.संशयः.॥
2.11.53
शमी.बिल्व.पलाशानाम्.अर्कस्य.तु.विशेषतः.।
पुष्पाणाम्.समिधाम्.चैव.हुत्वा.हैमम्.अवाप्नुयात्.॥
2.11.54
अब्रह्म.त्र्यम्बक.आदीनाम्.यस्य.आयतनम्.आश्रितः.।
जपेल्.लक्षम्.निराहारः.स.तस्य.वरदो.भवेत्.॥
2.11.55
बिल्वानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.।
पराम्.श्रियम्.अवाप्नोति.यदि.न.भ्रूणहा.भवेत्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0