भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.13

2.13.63

कृणुष्व.इति.जपन्त्.सूक्तम्.रक्षोघ्नम्.दस्युभिर्.वृतः.।
अरातीनाम्.हरेत्.प्राणान्.रक्षांस्य्.अपि.न.नाशयेत्.॥

2.13.64

उपतिष्ठेत.यो.वह्निम्.परि.इत्य्.ऋचा.दिने.दिने.।
तम्.रक्षति.स्वयम्.वह्निर्.विश्वतो.विश्वतो.मुखः.॥

2.13.65

को.अद्य.इति.तु.सूक्तेन.यो.नित्यम्.शक्रम्.अर्चति.।
जपेद्.वा.अथ.नमस्.कारैः.शक्रतो.लभते.वरान्.॥

2.13.66

कया.इति.वामदेव्येन.कुर्यात्.स्वस्त्ययनम्.निशि.।
जपेद्.वा.संधि.वेलासु.ब्रह्म.एतत्.कुशिक.उदितम्.॥

2.13.67

हंसः.शुचिषद्.इत्य्.ऋचा.शुचिर्.ईक्षेद्.दिवाकरम्.।
अन्त.काले.जपन्न्.एति.ब्रह्मणः.सद्म.शाश्वतम्.॥

2.13.68

कृषिम्.प्रपद्यमानस्.तु.स्थाली.पाकम्.यथा.विधि.।
जुहुयात्.क्षेत्र.मध्ये.तु.शुनम्.वाहास्.तु.पञ्चभिः.॥

2.13.69

यथा.लिङ्गम्.तु.विहरेल्.लाङ्गलम्.कृषीवलः.।
इन्द्राय.च.मरुद्भ्यश्.च.पर्जन्याय.भगाय.च.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc