ऋग्विधान · अध्याय 2.10
घृत.आशी.प्राप्नुयान्.मेध्याम्.बहु.विज्ञान.संचयम्.॥
हुत्वा.वेतस.पत्राणि.घृत.अक्तानि.हुत.अशने.।
लक्षाद्.वर्षापयेद्.देवम्.सार्वभौमम्.न.संशयः.॥
लक्षेण.भस्म.होमस्य.कृत्या.ह्य्.उत्तिष्ठते.जलात्.।
आदित्य.अभिमुखः.स्थित्वा.न.अभिमात्रे.जले.शुचिः.॥
तिलानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.।
सर्व.काम.समृद्ध.आत्मा.पराम्.सिद्धिम्.अवाप्नुयात्.॥
यवानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.।
सर्व.काम.समृद्ध.आत्मा.परम्.स्थानम्.अवाप्नुयात्.॥
घृतस्य.आहुति.लक्षेण.सर्वान्.कामान्.अवाप्नुयात्.।
पञ्च.गव्य.अशनो.लक्षम्.जपेज्.जाति.स्मरो.भवेत्.॥
तद्.एव.ह्य्.अनले.हुत्वा.प्राप्नोति.बहुशो.धनम्.।
अन्न.अद्य.हवनान्.नित्यम्.अन्न.अद्यम्.च.भवेत्.सदा.॥
जुहुयात्.सर्व.साध्यानाम्.आहुत्य्.अयुत.संख्यया.।
रक्त.सिद्ध.अर्थकान्.हुत्वा.सर्वान्त्.साधयते.रिपून्.॥
लवणम्.मधु.सम्युक्तम्.हुत्वा.सर्वम्.वशो.भवेत्.।
हुत्वा.हु.कर.वीराणि.रक्तानि.जनयेज्.ज्वरम्.॥
हुत्वा.वैभीतकम्.तैलम्.देशाद्.एव.प्रचाटयेत्.।
हुत्वा.तु.निम्ब.पत्राणि.विद्वेषम्.जनयेन्.नृणाम्.॥
रक्तानाम्.तण्डुलानाम्.तु.घृत.अक्तानाम्.हुत.अशने.।
हुत्वा.बलम्.अवाप्नोति.शत्रुभिर्.न.जीयते.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0