भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.1

2.1.1

कल्याण.वादी.वा.अन्यो.वा.न.वा.रौति.न.दृश्यते।
जपेद्.एव.नमस्.कृत्य.सिद्ध.अर्थः.सन्.निवर्तते.॥

2.1.2

न.तस्य.अस्ति.भयम्.किंचिद्.दस्युभ्यो.अध्वनि.वा.क्वचित्.।
तरत्य्.अपि.च.दुर्गाणि.स्वस्तिमांश्.च.सुखी.भवेत्.॥

2.1.3

यस्य.भुक्तम्.न.जीर्येत.न.तिष्ठेद्.वा.कथंचन.।
ध्यात्वा.सो.अत्तारम्.अन्नस्य.अग्निर्.अस्मि.इत्य्.र्चम्.जपेत्.॥

2.1.4

विश्वामित्रस्य.संवादम्.नद्य्.अतिक्रमणे.जपेत्.।
आप्लुतस्य.आचम्य.विधिवद्.उदकस्य.अञ्जलिम्.क्षिपेत्.॥

2.1.5

नमः.स्रवद्भ्य.इत्य्.एतद्.यो.नित्यम्.हि.समाचरेत्.।
तम्.नद्यः.स्रोतसः.पान्ति.स्वम्.पुत्रम्.इव.मातरः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc