भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.31

1.31.166

पूर्वम्.आज्य.आहुतीर्.हुत्वा.अथ.उपस्थाय.शंकरम्.।
हविः.शेषेण.वर्तेत.एकान्तरम्.अतन्द्रितः.॥

1.31.167

पूर्णे.मासि.जपेन्.मृत्युम्.रोगेभ्यश्.च.प्रमुच्यते.।
अभिशस्येत.यो.मोहात्.कुर्याद्.वा.कर्म.गर्हितम्.॥

1.31.168

स्नात्वा.भुञ्जन्.जपेद्.अप्सु.अम्बी.इत्य्.ऋचम्.अतन्द्रितः.।
अध्वनि.प्रस्थितो.यस्.तु.पश्येत्.शकुनिम्.उत्थितम्.॥

1.31.169

अप्रशस्तम्.प्रशस्तम्.वा.स्थित्वा.ऐक्ष्य.प्रयतो.जपेत्.।
कनिक्रदद्.इति.सूक्ताभ्याम्.उपतिष्ठेत्.कृत.स्वरम्.॥

1.31.170

शकुनिम्.वायसम्.वा.अपि.मृगम्.दंष्ट्रिणम्.एव.च.।
अप्य्.अदृष्ट्वा.एव.जप्तव्यम्.एतत्.तस्कर.मोहनम्.।ए

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc