भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 2.2

2.2.6

भयम्.च.अस्य.न.विद्यते.नदी.तीर.चरेष्व्.अपि.।
जल.चरेभ्यो.भूतेभ्यः.शीत.उष्णैर्.न.च.बाध्यते.॥

2.2.7

पूर्णाम्.तितीर्षुः.सरितम्.रमध्वम्.इति.संस्मरेत्.।
ओ.स्व्.इत्य्.ऋचम्.अपाम्.मध्ये.जपेद्.यो.वै.नदीम्.तरन्.॥

2.2.8

स.शीघ्रम्.तीरम्.आप्नोति.गाधम्.वा.विन्दते.द्विजः.।
युक्तेन.एव.रथेन.आशु.यो.अपाम्.पारम्.तितीर्षति.॥

2.2.9

उद्.व.ऊर्मिर्.इति.इमाम्.तु.जपेत.नियतः.स्वयम्.।
अध्वानम्.प्रस्थितश्.चैवम्.आमन्द्रैर्.इति.संस्मरेत्.॥

2.2.10

कार्याण्य्.अशेषतः.कृत्वा.पुनर्.आयाति.वै.गृहम्.।
अदातारम्.सुपुष्ट.अर्थम्.सर्वदा.आविष्ट.चेतनम्.॥

2.2.11

हत्वा.तद्.धनम्.अन्विच्छेत्.किम्.ते.कृण्वन्ति.इति.स्मरन्.।
इन्द्रा.पर्वत.इति.सूक्तम्.आयुष्यम्.द्राविणम्.स्मृतम्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc