ग्रंथ पाठ
ऋग्विधान · अध्याय 1.9
1.9.42
चतुरः.प्रातर्.अश्नीयाद्.विप्रः.पिण्डान्.कृत.आह्निकः.।
चतुरो.अस्तमिते.सूर्ये.शिशु.चान्द्रयणम्.स्मृतम्.॥
1.9.43
अष्टाव्.अष्टौ.समश्नीयात्.पिण्डान्.मध्यंदिने.स्थिते.।
नियत.आत्मा.हविष्यस्य.यति.चान्द्रायण.व्रतम्.॥
1.9.44
यथा.कथंचित्.पिण्डानाम्.तिस्रो.अशीतीः.समाहितः.।
मासेन.अश्नन्.हविष्यस्य.चन्द्रस्य.एति.सलोकताम्.॥
1.9.45
एतद्.रुद्रास्.तथा.आदित्या.वसवश्.च.आचरन्.व्रतम्.।
सर्व.अकुशल.मोक्षाय.मरुतश्.च.ऋभुभिः.सह.॥
1.9.46
यावकः.सप्त.रात्रम्.तु.पातव्यो.नियत.आत्मना.।(?)
स्थान.आसन.त्रिषवणैर्.जपता.पावनानि.च.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0