ग्रंथ पाठ
ऋग्विधान · अध्याय 1.10
1.10.47
एक.एकम्.सप्त.रात्रेण.पुनाति.विधिवत्.कृतः.।
त्वग्.असृक्.पिशित.अस्थीनि.मेदो.मज्जानम्.एव.च.॥
1.10.48
एक.एकम्.सप्त.रात्रम्.तु.त्वग्.आदीनाम्.विशोधनम्.।
एभिर्.व्रतैर्.विपूत.आत्मा.कुर्यात्.कर्माण्य्.अतन्द्रितः.॥
1.10.49
इष्टान्.कामान्.ततः.सर्वान्.अवाप्नोति.न.संशयः.।
कण.पिण्याक.तक्राणाम्.एक.एकम्.शोधनम्.भवेत्.॥
1.10.50
शुद्ध.आत्मा.कर्म.कुर्वीत.सत्य.वादी.जित.इन्द्रियः.।
एवम्.शुद्धस्य.कर्माणि.मन्त्रैर्.वक्ष्यामि.तद्यथा.॥
1.10.51
त्रिरात्रम्.एव.उपवसेद्.आदितः.सर्व.कर्मणाम्.।
त्रीणि.नक्तानि.वा.कुर्यात्.ततः.कर्म.समारभेत्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0