ग्रंथ पाठ
ऋग्विधान · अध्याय 1.8
1.8.37
तप्त.कृच्छ्रम्.चरन्.विप्रो.जल.क्षीर.घृत.अनिलान्.।
प्रतित्र्यहम्.पिबेद्.उष्णान्त्.सकृत्स्नायी.संहाहितः.॥
1.8.38
नियतस्.तु.पिबेद्.अपः.प्राजापत्य.विधिः.स्मृतः.।
यति.कृच्छ्रम्.वदन्त्य्.एतद्.रपसाम्.अपनोदनम्.॥
1.8.39
यत.आत्मनो.अप्रमत्तस्य.द्वादश.अहम्.अभोजनम्.।
पराको.नाम.कृच्छ्रो.अयम्.सर्व.पाप.अपनोदनः.॥
1.8.40
एक.एकम्.ह्रासयेत्.पिण्डम्.कृष्णे.शुक्ले.च.वर्धयेत्.।
उपस्पृशंस्.त्रिषवणम्.एतच्.चान्द्रायणम्.व्रतम्.॥
1.8.41
एतम्.एव.विधिम्.कृत्स्नम्.आचरेद्.यव.मध्यमे.।
शुक्ल.पक्ष.आदि.नियतः.चरंश्.चान्द्रायण.व्रतम्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0