भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.30

1.30.161

उपतिष्ठेत.सूक्तेन.सर्व.काम.समृद्धये.।
यो.मे.राजन्न्.इति.इमाम्.तु.दुह्स्वप्न.शमनीम्.ऋचम्.॥

1.30.162

जप्त्वा.नाशयति.क्षिप्रम्.दुह्स्वप्नम्.ब्राह्मणः.शुचिः.।
अहो.रात्रम्.उपोष्य.एकम्.नियतो.ब्रह्मवित्तमः.॥

1.30.163

प्रजा.अर्थम्.जुहुयाद्.आज्यम्.चरुम्.वा.पयसि.श्रितम्.।
राका.महम्.इति.इमाभिः.षष्ठ्याम्.शुक्लस्य.पञ्चभिः.॥

1.30.164

हविः.शेषम्.स्वयम्.प्राश्य.विन्दते.महतीम्.प्रजाम्.।
व्याधिना.यो.अभिभूतः.स्याद्.घोरेण.प्राण.हारिणा.॥

1.30.165

चतुर्दशीम्.उपोष्य.एकाम्.कृष्णस्य.जुहुयाच्.चरुम्.।
आ.ते.सूक्तेन.रौद्रेण.प्रत्यृचम्.वाग्.यतः.शुचिः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc