भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.25

1.25.133

अधः.स्वप्नस्य.इति.जपेत्.प्रातः.प्रातर्.दिने.दिने.।
दुः.स्वप्नम्.नुदते.क्षिप्रम्.न.च.अस्य.अभोजनाद्.भयम्.॥

1.25.134

उभे.पुनामि.इति.परा.रिपुघ्न्यस्.तु.प्रकीर्तिताः.।
ता.जपन्.हन्ति.रक्षांसि.सपत्नांश्.च.नियच्छति.॥

1.25.135

निर्वर्त्य.पञ्च.यज्ञांश्.च.हुत्वा.च.अग्निम्.कृत.आह्निकः.।
ये.देवासो.दिव्य.नया.जपन्.कामान्.अवाप्नुयात्.॥

1.25.136

इन्द्रा.विष्णू.नमस्.कृत्य.विष्णोर्.नु.कम्.इति.त्रिभिः.।
समित्.पाणिः.शुचिर्.भूत्वा.उपतिष्ठेद्.दिने.दिने.॥

1.25.137

धर्मम्.बुद्धिम्.धनम्.पुत्रान्.आरोग्यम्.ब्रह्म.वर्धनम्.।
प्राप्नोति.च.परम्.स्थानम्.ज्योती.रूपम्.सनातनम्.॥

1.25.138

आततायिनम्.आयान्तम्.दृष्ट्वा.व्याघ्रम्.अथो.वृकम्.।
न.मा.गरन्न्.इति.जपंस्.तेभ्य.एव.प्रमुच्यते.॥

1.25.139

त्रि.रात्र.उपोषितो.रात्रौ.जपेद्.आसूर्य.दर्शनात्.।
आप्लुत्य.प्रयतः.सौरीर्.उपतिष्ठेद्.दिवाकरम्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc