ग्रंथ पाठ
ऋग्विधान · अध्याय 1.24
1.24.128
वीरेष्व्.अपत्य.गोष्ठेषु.दुह्स्वप्ने.रिप्रम्.आत्मनः.।
मा.नो.महान्तम्.इत्य्.आभ्याम्.त्रि.रात्र.उपोषितः.शुचिः.॥
1.24.129
औदुम्बरीस्.तु.जुहुयाद्.दधि.मध्व्.आज्य.संस्कृताः.।
सूक्तेन.जुहुयाद्.आज्यम्.आदाव्.अन्ते.च.कर्मणाम्.॥
1.24.130
ऊर्ध्व.बाहुस्.तु.सूक्तेन.तुष्ट्वा.च.शतशो.भवम्.।
छित्त्वा.सर्वान्.मृत्यु.पाशान्.जीवेद्.रोगैर्.विवर्जितः.॥
1.24.131
तिष्ठन्न्.उद्यन्तम्.आदित्यम्.समित्.पाणिः.शुचिः.सदा.।
चित्रम्.इत्य्.उपतिष्ठेत.सूक्तेन.अनेन.भास्करम्.॥
1.24.132
अतिस्तवेन.च.एतेन.नित्यम्.मध्यंदिने.रविम्.।
गृणन्न्.अपोहते.रिप्रम्.प्राप्नोति.च.धन.आयुषी.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0