भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.26

1.26.140

न.एनम्.पश्यन्ति.वै.चौरास्.तथा.अन्ये.पाप.वृत्तयः.।
एकः.शतानि.त्रायेत.तस्करेभ्यश्.चरन्.पथि.॥

1.26.141

स्तेयम्.कृत्वा.द्विजो.मोहात्.त्रि.रात्र.उपोषितः.शुचिः.।
सूक्तम्.जप्त्वा.अस्य.वामीयम्.क्षिप्रम्.मुच्येत.किल्बिषात्.॥

1.26.142

ज्ञाति.पुत्र.सुहृन्.मित्रैर्.यश्.च.राज्यम्.चिकीर्षति.।
नित्यम्.स.नियतो.भूत्वा.सूक्तम्.तु.मनसा.जपेत्.॥

1.26.143

कया.शुभा.इति.पैशुन्यम्.कृत्वा.आचार्य.नृप.द्विजैः.।
श्रुत्वा.पर.रहस्यम्.तु.गुरोर्.अप्य्.आह.शौनकः.॥

1.26.144

इमम्.नु.सोमम्.इत्य्.एते.द्वे.ऋचौ.प्रयतो.जपेत्.।
सर्वान्.कामान्.अवाप्नोति.न.किंचित्.पातकम्.भवेत्.॥

1.26.145

पितुम्.न्व्.इत्य्.उपतिष्ठेत.नित्यम्.अन्नम्.उपस्थितम्.।
पूजयेद्.अशनम्.नित्यम्.भुञ्जीयाद्.अविकुत्सितम्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc