ऋग्विधान · अध्याय 1.23
कृत.अर्थः.स्व.गृहान्.गच्छन्न्.एताम्.एव.सदा.अभ्यसेत्.।
उदिते.सवितर्य्.एताम्.जपेद्.अस्तम्.गते.तथा.॥
अहः.स्वस्त्ययनम्.प्राता.रात्रि.स्वस्त्ययनम्.निशि.।
व्युष्टायाम्.च.जपेन्.नित्यम्.एताम्.दुह्स्वप्न.नाशिनीम्.॥
प्रमन्दिन.इति.सूयन्त्याम्.जपेद्.गर्भ.प्रमोचिनीम्.।
इन्द्रम्.च.मनसा.ध्यायेन्.नारी.गर्भम्.प्रमुञ्चति.॥
आपत्सु.सर्व.कामो.वा.त्रितम्.नित्यम्.जपेद्.ऋषिम्.।
जपन्न्.इन्द्र्म.इति.स्नातो.वैश्वदेवम्.तु.सप्तकम्.॥
मुच्यते.जुह्वद्.आज्यम्.तु.विश्वस्माद्.एव.सो.अंहसः.।
शन्तातीयम्.परम्.सूक्तम्.पञ्च.विंशकम्.उत्तमम्.॥
नासत्यौ.तु.नमस्.कृत्वा.परा.म्.ऋद्धिम्.अवाप्नुयात्.।
धर्म.संस्तवम्.सूक्तम्.रपसश्.च.प्रमोचनम्.॥
इमा.इति.जपेत्.शश्वद्.रौद्रम्.सूक्तम्.द्विजः.शुचिः.।
आयुर्.विद्याम्.धनम्.पुत्रान्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0