भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.22

1.22.113

स्नात्वा.शुचिस्.तु.नियत.इष्टम्.धनम्.अवाप्नुयात्.॥

1.22.114

आयुर्.ईप्सन्न्.इमम्.इति.कौत्सम्.सूक्तम्.सदा.अभ्यसेत्.।
आज्य.आहुतिश्.च.जुहुयात्.प्रत्यृचम्.वाग्.यतः.शुचिः.॥

1.22.115

जपेद्.आप्लुत्य.नियतः.स.साक्षाद्.आपदम्.तरेत्.।
अप.नः.शोशुचद्.इति.स्नात्वा.मध्यंदिने.रवौ.॥

1.22.116

शुद्धि.कामो.यत.आहारः.प्रत्यृचम्.जुहुयाद्.घृतम्.।
समिधो.अन्वहम्.अष्टौ.वा.सूक्तम्.एतद्.अघ.अपहम्.॥

1.22.117

यथा.मुञ्ज.आदि.वेषीका.तथा.पापात्.प्रमुच्यते.।
जातवेदस.इत्य्.आदि.सदा.स्वस्त्ययने.जपेत्.॥

1.22.118

दुर्गे.पथि.प्रयातस्य.न.अस्य.अरिभ्यो.भयम्.भवेत्.।
राज.कार्ये.अश्व.यूथे.वा.अभिशस्तो.अप्य्.अनेकधा.॥

1.22.119

अशक्ये.प्रतिभा.कार्ये.भये.प्राण.अन्तिके.अपि.वा.।(?)
जातवेदस.इत्य्.एताम्.जपंस्.तेभ्यः.प्रमुच्यते.॥

1.22.120

सिषाधयिषुर्.अर्थम्.च.प्रस्थितो.मनसा.जपेत्.।
सिद्ध.अर्थः.स्वस्तिमान्.एति.प्रमीयेत.न.च.अध्वनि.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc