भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.21

1.21.109

पितॄणाम्.श्राद्ध.काले.तु.मध्व्.इत्य्.एतत्.तृचम्.जपेत्.।
अघोराः.पितरस्.तस्य.विशन्ति.ज्योतिर्.उत्तमम्.॥

1.21.110

त्वम्.सोम.इति.तु.सूक्तेन.पश्येच्.चन्द्रम्.उपोदितम्.।
उपतिष्ठेत्.समित्.पाणिर्.मासि.मासि.नवम्.नवम्.॥

1.21.111

तम्.मासम्.तस्य.दुह्खम्.हि.न.जातु.त्रिविधम्.भवेत्.।
गोतमेन.पुरा.दृष्टम्.मृत्योर्.नाशनम्.आत्मनः.॥

1.21.112

उद्यन्तम्.उपतिष्ठेत.पूर्णे.च.एतत्.समाहितः.।
वासांस्य्.अपि.स.विन्देत.चन्द्रस्य.एति.सलोकताम्.॥

1.21.113

धन.कामो.जपेन्.नित्यम्.एता.इति.तु.नित्यशः.।

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc