ग्रंथ पाठ
ऋग्विधान · अध्याय 1.20
1.20.104
अस्तम्.व्रजति.सूर्ये.तु.द्विषन्तम्.प्रतिबाधते.।
ओजस्.तेजस्.तथा.आरोग्यम्.द्विषद्.द्वेषम्.प्रकीर्तितम्.॥
1.20.105
नव.पश्वा.इति.सूक्तानि.यानि.गर्भे.पराशरः.।
अरातीनाम्.हरेत्.प्राणान्.छत्रंश्.चैव.नियच्छति.॥
1.20.106
सौपर्णानि.पवित्राणि.सूक्तान्य्.एकादश.अभ्यसेत्.।
वाञ्छन्.पुत्रान्.पशून्.वित्तम्.स्वर्गम्.आयुर्.अनन्धताम्.॥
1.20.107
आध्यात्मिकीः.क.इत्य्.एता.जपैस्.तु.सुसमाहितः.।
प्राप्नुयात्.स.परम्.धाम.विश्वम्.ज्योतिः.सनातनम्.॥
1.20.108
आनोहद्रीयम्.आयुष्यम्.वैश्वदेवम्.जपन्.मुनिः.।
मुमूर्षुर्.अपि.जप्त्वा.एतत्.सर्वम्.आयुर्.अवाप्नुयात्.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0