भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.19

1.19.99

उद्.इत्य्.उद्यन्तम्.आदित्यम्.उपतिष्ठेद्.दिने.दिने.।
हृद्.रोग.नाशनम्.ह्य्.एतत्.परम.आरोग्य.वर्धनम्.॥

1.19.100

द्विषन्तम्.इत्य्.अथ.अर्धर्चम्.यम्.द्विष्यात्.तम्.जपन्त्.स्मरेत्.।
आगस्.कृत्.सप्त.रात्रेण.विद्वेषम्.अधिगच्छति.॥

1.19.101

रोगैर्.गृहीतो.अरोगी.च.प्रस्कण्वस्य.उत्त्तमम्.तृचम्.।
आरोग्यम्.एतत्.प्रयतो.जपेन्.नित्यम्.अनेकशः.॥

1.19.102

उत्तमस्.तस्य.च.अर्धर्चो.द्विषद्.द्वेष.इति.स्मृतः.।
यम्.द्विष्यात्.तम्.अभिध्यायेद्.दृष्ट्वा.च.एनम्.जपेद्.इदम्.॥

1.19.103

आगस्.कृच्.चेत्.त्रि.रात्रेण.विद्वेषम्.सम्नियच्छति.।
उदयत्य्.आयुर्.अक्षय्यम्.तेजो.मध्यंदिने.जपन्.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc