भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.2

1.2.7

सिद्धा.मन्त्रा.विधिना.ब्राह्मणस्य.फलम्.यच्छन्ति.विधिवत्.प्रयुक्ताः.।
सत्यम्.तेषाम्.साधनम्.सम्यमश्.च.शमस्.तितिक्षा.अनसूया.दमश्.च.॥

1.2.8

तस्माद्.द्विजः.प्रशान्त.आत्मा.जप.होम.परायणः.।
तपस्य्.अध्ययने.युक्तो.भवेद्.भूत.अनुकम्पकः.॥

1.2.9

क्षत्रियो.बाहु.वीर्येण.तरेद्.आपदम्.आत्मनः.।
धनेन.वैश्य.शूद्रौ.तु.जप.होमैर्.द्विज.उत्तमः.॥

1.2.10

तपसा.स्वर्गम्.आप्नोति.तपसा.विन्दते.महत्.।
तपो.युक्तस्य.सिध्यन्ति.कर्माणि.नियत.आत्मनः.।

1.2.11

विद्वेषणम्.संवननम्.विषघ्नम्.रोग.नाशनम्.।
येन.येन.अर्थम्.ऋषिणा.यद्.अर्थम्.देवताः.स्तुताः.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc