ग्रंथ पाठ
ऋग्विधान · अध्याय 1.3
1.3.12
स.स.कामः.समृद्धश्.च.तेषाम्.तेषाम्.तथा.तथा.।
तानि.कर्माणि.वक्ष्यामि.विविधानि.च.कर्मणाम्.॥
1.3.13
पुरश्चरणम्.आदौ.तु.कर्मणाम्.सिद्धि.कारकम्.।
स्वाध्याय.अभ्यसनस्य.आदौ.प्राजापत्यम्.चरेद्.द्विजः.॥
1.3.14
केश.श्मश्रु.लोम.नखान्.वापयित्वा.आप्लुतः.शुचिः.।
तिष्ठेद्.अहनि.रात्रौ.तु.शुचिर्.आसीत.वाग्.यतः.॥
1.3.15
सत्य.वादी.पवित्राणि.जपेद्.व्याहृतयस्.तथा.।
ओम्.कार.आद्यास्.तु.ता.जप्त्वा.सावित्रीम्.च.तद्.इत्य्.ऋचम्.॥
1.3.16
आपो.हि.ष्ठ.इति.सूक्तम्.तु.शुद्धवत्यो.अघमर्षणम्.।
शंवत्यः.स्वस्तिमत्यश्.च.पावमान्यस्.तथैव.च.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0