ऋग्विधान · अध्याय 1.1
स्वयम्भुवे.ब्रह्मणे.विश्वगोप्त्रे.नमस्कृत्वा.मन्त्रदृग्भ्यस्.तथैव.।
विवक्षुर्.अस्म्य्.ऋग्विधानम्.पुराणम्.पुरादृष्टम्.ऋषिभिर्.मन्त्र.दृग्भिः.॥
मन्त्रेभ्यो.मन्त्र.दृग्भ्यश्.च.समाम्नायानुपूर्वशः.।
कर्मणाम्.ऋषि.दृष्टानाम्.विधिम्.प्रोवाच.शौनकः.॥
ऋषिभिर्.विविधा.मन्त्रा.दृष्टा.दृष्ट.प्रयोजनाः.।
प्रयोजनाय.चोद्दिष्टास्.तस्मिंस्.तस्मिन्.प्रदर्शिताः.॥
नानार्थानि.च.कर्माणि.शान्ति.पुष्ट्य्.आश्रयाणि.च.।
सिद्धयश्.च.तपो.मूलाः.श्रद्दधानस्य.कुर्वतः.॥
स्तुत्य्.आदयो.ये.विकाराः.प्रदिष्टास्.तथा.अर्थवादा.र्क्षु.सूक्तेषु.चैव.।
यैर्..यैः.कामैर्.ऋषिर्.देवताश्.च.तुष्टूष्यन्ते..तान्..शृणुष्व.उच्यमानान्.॥
आयुः.स्वर्गो.द्रविणम्.सूनवश्.च.चतुर्विधम्.प्रोक्तम्.आशास्यम्.अग्रे.।
अन्ये.कामाः.शतशः.सम्प्रदिष्टाः.संस्तुवद्भिर्.ऋषिभिर्.देवताश्.च.॥
मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0