भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.18

1.18.92

हैरण्यस्तूपम्.इन्द्रस्य.सूक्तम्.कर्म.अभिसंस्तवम्.।
तज्.जपन्.प्रयतः.शत्रून्.अयत्नात्.प्रतिबाधते.॥

1.18.93

आकृष्णेन.इत्य्.ऋचा.त्व्.एव.यो.नित्यम्.सूर्यम्.अर्चति.।
प्रातर्.मध्ये.अस्तगम्.वा.अपि.स.जीवेद्.अगदः.सुखी.॥

1.18.94

आकृष्णेन.इत्य्.ऋचम्.त्व्.एकाम्.ध्यायन्.निशि.दिव.ओकसः.।
अग्नौ.हुत्वा.एतया.च.आज्यम्.दीर्घम्.आयुर्.अवाप्नुयात्.॥

1.18.95

ये.ते.पन्था.इति.इमाम्.तु.सावित्रीम्.अध्वगो.अभ्यसेत्.।
स्वस्तिमान्.व्रजते.अध्वानम्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥

1.18.96

सम्.पूषन्न्.इति.यत्.सूक्तम्.घौरैः.कण्वो.जगाव्.ऋषिः.।
अध्वन्य्.एतद्.विज्ञेयम्.परिपन्थ्य्.अपसेधनम्.॥

1.18.97

रौद्रीभिः.षड्भिर्.ईशानम्.तुष्टूयाद्.यो.दिने.दिने.।
स.नारी.नर.गो.शान्तिम्.शङ्करात्.प्राप्नुयात्.सदा.॥

1.18.98

एतेन.एव.षडर्चेन.जुहुयाद्.आज्यम्.अन्वहम्.।
चरुम्.वा.कल्पयेद्.रौद्रम्.भूति.कामो.अथ.पर्वसु.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc