भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्विधान · अध्याय 1.17

1.17.84

अतः.परम्.तृचाः.सप्त.वाय्व्.आद्या.ये.प्रकीर्तिताः.।
तान्.जपन्.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥

1.17.85

मेधातिथाव्.ऋषौ.पुनः.सदसस्.पतिम्.इत्य्.ऋचम्.।
मेधा.कामो.जपेन्.नित्यम्.जुहुयात्.च.आज्यम्.एतया.॥

1.17.86

स्योना.इति.पृथिवीम्.नित्यम्.स्नात्वा.विप्रः.शुचिर्.जपेत्.।
विन्दते.महतीम्.भूमिम्.असपत्नाम्.अकण्टकाम्.॥

1.17.87

इदम्.विष्णुर्.इति.इमाभिः.पञ्चभिः.श्राद्ध.कर्मणि.।
अङ्गुष्ठम्.अन्ने.अवगाह्य.तेन.रक्षांसि.बाधते.॥

1.17.88

सप्त.जन्म.कृतम्.पापम्.कृत्वा.च.अभक्ष्य.भक्षणम्.।
तद्.विष्णोर्.इत्य्.अपाम्.मध्ये.सकृज्.जप्त्वा.विशुध्यति.॥

1.17.89

अम्बयो.यन्ति.या.प्रोक्ता.नवर्चस्.त्व्.अभिषेचनीः.।
आयुष्यास्.ताः.परिप्रोक्ता.भैषज्याः.पाप.मोचनीः.॥

1.17.90

शुनह्शेपम्.ऋषिम्.बद्धः.सम्निरुद्धो.अथवा.जपेत्.।
मुच्यते.सर्व.पाशेभ्यो.गदी.च.अप्य्.अगदी.भवेत्.॥

1.17.91

य.इच्छेत्.शाश्वतान्.कामान्.इन्द्रात्.प्राप्तुम्.पुरंदरात्.।
स.षोडशभिर्.एव.ऋग्भिर्.इन्द्रम्.स्तूयाद्.दिने.दिने.॥

मूल पाठ: Ṛgvidhāna · Edition: M.S. Bhat · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc